RSS

श्रीदेव्यपराधक्षमापनस्तोत्रम्।

26 सितम्बर

Devi aparadh kshamapan-hindi anuvad.

  ।। श्री गणेशाय नम:।।
न मन्त्रं नो यंत्रं तदपि च न जाने स्तुतिमहो।
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं।
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्।।1।।
विधेरज्ञानेन द्रविणविरहेणालसतया।
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।।2।।
पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:।
परं तेषां मध्ये विरलतरलोऽहं तव सुत:।
मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।3।।
जगन्मातर्मातस्तव चरणसेवा न रचिता।
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे ।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।4।।
परित्यक्ता देवा विविधसेवाकुलतया ।
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता ।
निरालम्बो लम्बोदरजननि कं यामि शरणम् ।।5।।
श्वपाको जल्पाको भवति मधुपाकोपमगिरा।
निरातङ्को रङ्को विहरति चिरं कोटिकनकै:।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं ।
जन: को जानीते जननि जपनीयं जपविधौ ।।6।।
चिताभस्मालेपो गरलमशनं दिक्पटधरो।
जटाधारी कण्ठे भुजगपतिहारी पशुपति:।
कपाली भूतेशो भजति जगदीशैकपदवीं ।
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्।।7।।
न मोक्षस्याकांक्षा न च विभववात्र्छापि च न मे।
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन:।
अतस्वां संयाचे जननि जननं यातु मम वै।
मृडानी रुद्राणी शिवशिव भवानीति जपत:।।8।।
नाराधितासि विधिना विविधोपचारै:।
किं रुक्षचिन्तनपरैर्नं कृतं वचोभि: ।
श्यामे त्वतेव यदि किञ्चन मय्यनाथे ।
धत्से कृपामुचितमम्ब परं तदैव ।।9।।
आपत्सु मग्न: स्मरणं त्वदीयं । करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथा:। क्षुधातृषार्ता जननीं स्मरन्ति ।।10।।
जगदम्ब विचित्रमत्र किं। परिपूर्णा करुणाऽस्ति चेन्मयि।
अपराधपरम्परावृत्तम् । न हि माता समुपेक्षते सुतम् ।।11।।
मत्सम: पातकी नास्ति । पापध्नी त्वत्समा नहि।
एवं ज्ञात्वा महादेवि। यथा योग्यं तथा कुरु।।12।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीमच्छंङ्कराचार्यविरचितं देव्यपराधक्षमापन स्तोत्रम् संपूर्णम्।।

Advertisements
 
1 टिप्पणी

Posted by on सितम्बर 26, 2011 in नवीन, स्तोत्र

 

One response to “श्रीदेव्यपराधक्षमापनस्तोत्रम्।

  1. pankaj2011patel

    अक्टूबर 6, 2011 at 9:48 पूर्वाह्न

    jay shree krishna

     

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

 
%d bloggers like this: